Sri Mahalakshmi Suprabhatam Lyrics in Hindi

Mahalakshmi Suprabhatam in Hindi Visit www.stotraveda.com
Mahalakshmi Suprabhatam in Hindi

Sri Mahalakshmi Suprabhatam in Hindi

॥श्रीलक्ष्मीसुप्रभातम्  – श्रीमहालक्ष्मीसुप्रभातम् ॥

Mahalakshmi Suprabhatam Lyrics in Hindi-

श्रीलक्ष्मि श्रीमहालक्ष्मि क्षीरसागरकन्यके
उत्तिष्ठ हरिसम्प्रीते भक्तानां भाग्यदायिनि ।
उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मि विष्णुवक्षस्थलालये
उत्तिष्ठ करुणापूर्णे लोकानां शुभदायिनि ॥ १॥

श्रीपद्ममध्यवसिते वरपद्मनेत्रे
श्रीपद्महस्तचिरपूजितपद्मपादे ।
श्रीपद्मजातजननि शुभपद्मवक्त्रे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २॥

जाम्बूनदाभसमकान्तिविराजमाने
तेजोस्वरूपिणि सुवर्णविभूषिताङ्गि ।
सौवर्णवस्त्रपरिवेष्टितदिव्यदेहे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ३॥

सर्वार्थसिद्धिदे विष्णुमनोऽनुकूले
सम्प्रार्थिताखिलजनावनदिव्यशीले ।
दारिद्र्यदुःखभयनाशिनि भक्तपाले
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ४॥

चन्द्रानुजे कमलकोमलगर्भजाते
चन्द्रार्कवह्निनयने शुभचन्द्रवक्त्रे ।
हे चन्द्रिकासमसुशीतलमन्दहासे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ५॥

श्रीआदिलक्ष्मि सकलेप्सितदानदक्षे
श्रीभाग्यलक्ष्मि शरणागत दीनपक्षे ।

ऐश्वर्यलक्ष्मि चरणार्चितभक्तरक्षिन्
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ६॥

श्रीधैर्यलक्ष्मि निजभक्तहृदन्तरस्थे
सन्तानलक्ष्मि निजभक्तकुलप्रवृद्धे ।
श्रीज्ञानलक्ष्मि सकलागमज्ञानदात्रि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ७॥

सौभाग्यदात्रि शरणं गजलक्ष्मि पाहि
दारिद्र्यध्वंसिनि नमो वरलक्ष्मि पाहि ।
सत्सौख्यदायिनि नमो धनलक्ष्मि पाहि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ८॥

श्रीराज्यलक्ष्मि नृपवेश्मगते सुहासिन्
श्रीयोगलक्ष्मि मुनिमानसपद्मवासिन् ।
श्रीधान्यलक्ष्मि सकलावनिक्षेमदात्रि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ९॥

श्रीपार्वती त्वमसि श्रीकरि शैवशैले
क्षीरोदधेस्त्वमसि पावनि सिन्धुकन्या ।
स्वर्गस्थले त्वमसि कोमले स्वर्गलक्ष्मी
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १०॥

गङ्गा त्वमेव जननी तुलसी त्वमेव
कृष्णप्रिया त्वमसि भाण्डिरदिव्यक्षेत्रे ।
राजगृहे त्वमसि सुन्दरि राज्यलक्ष्मी
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ११॥

पद्मावती त्वमसि पद्मवने वरेण्ये
श्रीसुन्दरी त्वमसि श्रीशतश‍ृङ्गक्षेत्रे ।
त्वं भूतलेऽसि शुभदायिनि मर्त्यलक्ष्मी
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १२॥

चन्द्रा त्वमेव वरचन्दनकाननेषु
देवि कदम्बविपिनेऽसि कदम्बमाला ।
त्वं देवि कुन्दवनवासिनि कुन्ददन्ती
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १३॥

श्रीविष्णुपत्नि वरदायिनि सिद्धलक्ष्मि
सन्मार्गदर्शिनि शुभङ्करि मोक्षलक्ष्मि ।
श्रीदेवदेवि करुणागुणसारमूर्ते
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १४॥

अष्टोत्तरार्चनप्रिये सकलेष्टदात्रि
हे विश्वधात्रि सुरसेवितपादपद्मे ।
सङ्कष्टनाशिनि सुखङ्करि सुप्रसन्ने
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १५॥

आद्यन्तरहिते वरवर्णिनि सर्वसेव्ये
सूक्ष्मातिसूक्ष्मतररूपिणि स्थूलरूपे ।
सौन्दर्यलक्ष्मि मधुसूदनमोहनाङ्गि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १६॥

सौख्यप्रदे प्रणतमानसशोकहन्त्रि
अम्बे प्रसीद करुणासुधयाऽऽर्द्रदृष्ट्या ।
सौवर्णहारमणिनूपुरशोभिताङ्गि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १७॥

नित्यं पठामि जननि तव नाम स्तोत्रं
नित्यं करोमि तव नामजपं विशुद्धे ।
नित्यं श‍ृणोमि भजनं तव लोकमातः
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १८॥

माता त्वमेव जननी जनकस्त्वमेव
देवि त्वमेव मम भाग्यनिधिस्त्वमेव ।
सद्भाग्यदायिनि त्वमेव शुभप्रदात्री
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १९॥

वैकुण्ठधामनिलये कलिकल्मषघ्ने
नाकाधिनाथविनुते अभयप्रदात्रि ।
सद्भक्तरक्षणपरे हरिचित्तवासिन्
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २०॥

निर्व्याजपूर्णकरुणारससुप्रवाहे
राकेन्दुबिम्बवदने त्रिदशाभिवन्द्ये ।
आब्रह्मकीटपरिपोषिणि दानहस्ते
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २१॥

लक्ष्मीति पद्मनिलयेति दयापरेति
भाग्यप्रदेति शरणागतवत्सलेति ।
ध्यायामि देवि परिपालय मां प्रसन्ने
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २२॥

श्रीपद्मनेत्ररमणीवरे नीरजाक्षि
श्रीपद्मनाभदयिते सुरसेव्यमाने ।
श्रीपद्मयुग्मधृतनीरजहस्तयुग्मे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २३॥

इत्थं त्वदीयकरुणात्कृतसुप्रभातं
ये मानवाः प्रतिदिनं प्रपठन्ति भक्त्या ।
तेषां प्रसन्नहृदये कुरु मङ्गलानि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २४॥

जलधीशसुते जलजाक्षवृते जलजोद्भवसन्नुते दिव्यमते ।
जलजान्तरनित्यनिवासरते शरणं शरणं वरलक्ष्मि नमः ॥ २५॥
प्रणताखिलदेवपदाब्जयुगे भुवनाखिलपोषण श्रीविभवे ।
नवपङ्कजहारविराजगले शरणं शरणं गजलक्ष्मि नमः ॥ २६॥

घनभीकरकष्टविनाशकरि निजभक्तदरिद्रप्रणाशकरि ।
ऋणमोचनि पावनि सौख्यकरि शरणं शरणं धनलक्ष्मि नमः ॥ २७॥

अतिभीकरक्षामविनाशकरि जगदेकशुभङ्करि धान्यप्रदे ।
सुखदायिनि श्रीफलदानकरि शरणं शरणं शुभलक्ष्मि नमः ॥ २८॥

सुरसङ्घशुभङ्करि ज्ञानप्रदे मुनिसङ्घप्रियङ्करि मोक्षप्रदे ।
नरसङ्घजयङ्करि भाग्यप्रदे शरणं शरणं जयलक्ष्मि नमः ॥ २९॥

परिसेवितभक्तकुलोद्धरिणि परिभावितदासजनोद्धरिणि ।
मधुसूदनमोहिनि श्रीरमणि शरणं शरणं तव लक्ष्मि नमः ॥ २८॥

शुभदायिनि वैभवलक्ष्मि नमो वरदायिनि श्रीहरिलक्ष्मि नमः ।
सुखदायिनि मङ्गललक्ष्मि नमो शरणं शरणं सततं शरणं ॥ २९॥

वरलक्ष्मि नमो धनलक्ष्मि नमो जयलक्ष्मि नमो गजलक्ष्मि नमः ।
जय षोडशलक्ष्मि नमोऽस्तु नमो शरणं शरणं सततं शरणं ॥ ३०॥

नमो आदिलक्ष्मि नमो ज्ञानलक्ष्मि नमो धान्यलक्ष्मि नमो भाग्यलक्ष्मि ।
महालक्ष्मि सन्तानलक्ष्मि प्रसीद नमस्ते नमस्ते नमो शान्तलक्ष्मि ॥ ३०॥

नमो सिद्धिलक्ष्मि नमो मोक्षलक्ष्मि नमो योगलक्ष्मि नमो भोगलक्ष्मि ।
नमो धैर्यलक्ष्मि नमो वीरलक्ष्मि नमस्ते नमस्ते नमो शान्तलक्ष्मि ॥ ३१॥

अज्ञानिना मया दोषानशेषान्विहितान् रमे ।
क्षमस्व त्वं क्षमस्व त्वं अष्टलक्ष्मि नमोऽस्तुते ॥ ३२॥

देवि विष्णुविलासिनि शुभकरि दीनार्तिविच्छेदिनि
सर्वैश्वर्यप्रदायिनि सुखकरि दारिद्र्यविध्वंसिनि ।

नानाभूषितभूषणाङ्गि जननि क्षीराब्धिकन्यामणि
देवि भक्तसुपोषिणि वरप्रदे लक्ष्मि सदा पाहि नः ॥ ३३॥

माम् सद्यःप्रफुल्लसरसीरुहपत्रनेत्रे
हारिद्रलेपितसुकोमलश्रीकपोले ।
पूर्णेन्दुबिम्बवदने कमलान्तरस्थे
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३४॥

भक्तान्तरङ्गगतभावविधे नमस्ते
रक्ताम्बुजातनिलये स्वजनानुरक्ते ।
मुक्तावलीसहितभूषणभूषिताङ्गि
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३५॥

क्षामादितापहारिणि नवधान्यरूपे
अज्ञानघोरतिमिरापहज्ञानरूपे ।
दारिद्र्यदुःखपरिमर्दितभाग्यरूपे
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३६॥

चम्पालताभदरहासविराजवक्त्रे
बिम्बाधरेषु कपिकाञ्चितमञ्जुवाणि ।
श्रीस्वर्णकुम्भपरिशोभितदिव्यहस्ते
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३७॥

स्वर्गापवर्गपदविप्रदे सौम्यभावे
सर्वागमादिविनुते शुभलक्षणाङ्गि ।
नित्यार्चिताङ्घ्रियुगले महिमाचरित्रे
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३८॥

जाज्ज्वल्यकुण्डलविराजितकर्णयुग्मे
सौवर्णकङ्कणसुशोभितहस्तपद्मे ।
मञ्जीरशिञ्जितसुकोमलपावनाङ्घ्रे
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३९॥

सर्वापराधशमनि सकलार्थदात्रि
पर्वेन्दुसोदरि सुपर्वगणाभिरक्षिन् ।
दुर्वारशोकमयभक्तगणावनेष्टे
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४०॥

बीजाक्षरत्रयविराजितमन्त्रयुक्ते
आद्यन्तवर्णमयशोभितशब्दरूपे ।
ब्रह्माण्डभाण्डजननि कमलायताक्षि
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४१॥

श्रीदेवि बिल्वनिलये जय विश्वमातः var वसुदायिनि
आह्लाददात्रि धनधान्यसुखप्रदात्रि ।
श्रीवैष्णवि द्रविणरूपिणि दीर्घवेणि
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४२॥

आगच्छ तिष्ठ तव भक्तगणस्य गेहे
सन्तुष्टपूर्णहृदयेन सुखानि देहि ।
आरोग्यभाग्यमकलङ्कयशांसि देहि
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४३॥

श्रीआदिलक्ष्मि शरणं शरणं प्रपद्ये
श्रीअष्टलक्ष्मि शरणं शरणं प्रपद्ये ।
श्रीविष्णुपत्नि शरणं शरणं प्रपद्ये
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ४४॥

मङ्गलं करुणापूर्णे मङ्गलं भाग्यदायिनि ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४५॥

अष्टकष्टहरे देवि अष्टभाग्यविवर्धिनि ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४६॥

क्षीरोदधिसमुद्भूते विष्णुवक्षस्थलालये ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४७॥

धनलक्ष्मि धान्यलक्ष्मि विद्यालक्ष्मि यशस्करि ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४८॥

सिद्धलक्ष्मि मोक्षलक्ष्मि जयलक्ष्मि शुभङ्करि ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४९॥

सन्तानलक्ष्मि श्रीलक्ष्मि गजलक्ष्मि हरिप्रिये ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५०॥

दारिद्र्यनाशिनि देवि कोल्हापुरनिवासिनि ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५१॥

वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५२॥

मङ्गलं मङ्गलं नित्यं मङ्गलं जयमङ्गलं ।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५३॥

इति श्रीमहालक्ष्मीसुप्रभातं सम्पूर्णम् ।

ॐ शान्तिः शान्तिः शान्तिः ।