Sri Sharabha Nigrahadaruna Saptakam

Sri Sharabha Nigrahadaruna Saptakam visit www.stotraveda.com
Sri Sharabha Nigrahadaruna Saptakam

Sri Nigrahadaruna Saptakam in Sanskrit/Devanagari/Hindi:

श्रीशरभ निग्रहदारुण सप्तकम्

ॐ श्रीगणेशाय नमः ।
ध्यानम् –
चन्द्रार्काग्निस्त्रिदृष्टिः कुलिशवरनखश्चञ्चलोऽत्युग्रजिह्वः
काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः ।
ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः
संहर्ता सर्वशत्रून् स जयति शरभः शालुवः पक्षिराजः ॥

कोपोद्रेकातिनिर्यन्निखिलपरिचरत्ताम्रभारप्रभूतं
ज्वालामालाग्रदग्धस्मरतनुसकलं त्वामहं शालुवेश ।
याचे त्वत्पादपद्मप्रणिहितमनसं द्वेष्टि मां यः क्रियाभिः
तस्य प्राणप्रयाणं परशिव भवतः शूलभिन्नस्य तूर्णम् ॥ १॥

शम्भो त्वद्धस्तकुन्तक्षतरिपुहृदयान्निःस्रवल्लोहितौघं
पीत्वा पीत्वाऽतिदिर्घा दिशि दिशि विचरास्त्वदगणाश्चण्डमुख्याः ।
गर्जन्तु क्षिप्रवेगा निखिलजयकरा भीकराः खेललोलाः
सन्त्रस्ताब्रह्मदेवाः शरभ खगपते त्राहि नः शालुवेश ॥ २॥

सर्वाद्यं सर्वनिष्ठं सकलभयकरं त्वत्स्वरूपं हिरण्यं
याचेऽहं त्वाममोघं परिकरसहितं द्वेष्टि मां यः क्रियाभिः ।
श्रीशम्भो त्वत्कराब्जस्थितकुलिशकराघातवक्षःस्थलस्य
प्राणाः प्रेतेशदूतग्रहगणपरिखाः क्रोशपूर्वं प्रयान्तु ॥ ३॥

द्विष्मः क्षोण्यां वयं हि तव पदकमलध्याननिर्धूतपापाः
कृत्याकृत्यैर्विमुक्ता विहगकुलपते खेलया बद्धमूर्ते ।
तूर्णं त्वत्पादपद्मप्रधृतपरशुना तुण्डखण्डीकृताङ्गः
सद्द्वेषी यातु याम्यं पुरमतिकलुषं कालपाशाग्रबद्धः ॥ ४॥

भीम श्रीशालुवेश प्रणतभयहर प्राणजिद्दुर्मदानां
याचेऽहं चास्य वर्गप्रशमनमिह ते स्वेच्छया बद्धमूर्ते ।
त्वामेवाशु त्वदङ्घ्र्यष्टकनखविलसद्ग्रीवजिह्वोदरस्य
प्राणा यान्तु प्रयाणं प्रकटितहृदयस्यायुरल्पायतेश ॥ ५॥

श्रीशूलं ते कराग्रस्थितमुसलगदावृत्तवात्याभिघातात्
यातायातारियूथं त्रिदशविघटनोद्धूतरक्तच्छटार्द्रम् ।
सद्दृष्ट्वाऽऽयोधने ज्यामखिलसुरगणाश्चाशु नन्दन्तु नाना
भूता वेतालपूगः पिबतु तदखिलं प्रीतचित्तः प्रमत्तः ॥ ६॥

अल्पं दोर्दण्डबाहुप्रकटितविनमच्चण्डकोदण्डमुक्तै-
र्बाणैर्दिव्यैरनेकैः शिथिलितवपुषः क्षीणकोलाहलस्य ।
तस्य प्राणावसानं पर शरभ विभोऽहं त्वदिज्याप्रभावैः
तूर्णं पश्यामि यो मां परिहसति सदा त्वादिमध्यान्तहेतो ॥ ७॥

इति निशि प्रयतस्तु निरासनो यममुखः शिवभावमनुस्मरन् ।
प्रतिदिनं दशवारदिनत्रयं जपति निग्रहदारुणसप्तकम् ॥ ८॥

इति गुह्यं महाबीजं परमं रिपुनाशनम् ।
भानुवारं समारभ्य मङ्गलान्तं जपेत्सुधीः ॥ ९॥

इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे
नरसिंहकृता शरभस्तुतिः समाप्ता ॥

Sri Nigrahadaruna Saptakam:

Sri Sharabha Nigrahadaruna Saptakam in Telugu:

నిగ్రహ దారుణ సప్తకం