Durga Saptashati Dwitiya Adhyay 2nd Chapter

Durga Saptashati Dwitiya Adhyay 2nd Chapter

Durga Saptashati Dwitiya Adhyay 2nd Chapter www.StotraVeda.com
Durga Saptashati Dwitiya Adhyay 2nd Chapter

Durga Saptashati Dwitiya Adhyay 2nd Chapter in Sanskrit/Devanagari:

॥ श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः ॥
देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध

॥ विनियोगः ॥
ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,
शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,
श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः।

॥ ध्यानम् ॥
ॐ अक्षस्रक्‌परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥

“ॐ ह्रीं” ऋषिरुवाच॥1॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे॥2॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम्।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः॥3॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ॥4॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्॥5॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च।
अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति॥6॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना॥7॥
एतद्वः कथितं सर्वममरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्॥8॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ॥9॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्‍चक्राम महत्तेजो ब्रह्मणः शंकरस्य च॥10॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत॥11॥
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्॥12॥
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा॥13॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम्।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा॥14॥
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।
वारुणेन च जङ्‍घोरू नितम्बस्तेजसा भुवः॥15॥
ब्रह्मणस्तेजसा पादौ तदङ्‌गुल्योऽर्कतेजसा।
वसूनां च कराङ्‌गुल्यः कौबेरेण च नासिका॥16॥
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा।
नयनत्रितयं जज्ञे तथा पावकतेजसा॥17॥
भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा॥18॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः॥19॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः॥20॥
शङ्‌खं च वरुणः शक्तिं ददौ तस्यै हुताशनः।
मारुतो दत्तवांश्‍चापं बाणपूर्णे तथेषुधी॥21॥
वज्रमिन्द्रः समुत्पाद्य* कुलिशादमराधिपः।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात्॥22॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।
प्रजापतिश्‍चाक्षमालां ददौ ब्रह्मा कमण्डलुम्॥23॥
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः।
कालश्‍च दत्तवान् खड्‌गं तस्याश्‍चर्म च निर्मलम्॥24॥
क्षीरोदश्‍चामलं हारमजरे च तथाम्बरे।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च॥25॥
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम्॥26॥
अङ्‌गुलीयकरत्‍नानि समस्तास्वङ्‌गुलीषु च।
विश्‍वकर्मा ददौ तस्यै परशुं चातिनिर्मलम्॥27॥
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम्।
अम्लानपङ्‌कजां मालां शिरस्युरसि चापराम्॥28॥
अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम्।
हिमवा‍न् वाहनं सिंहं रत्‍नानि विविधानि च॥29॥
ददावशून्यं सुरया पानपात्रं धनाधिपः।
शेषश्‍च सर्वनागेशो महामणिविभूषितम्॥30॥
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा॥31॥
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः॥32॥
अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकला लोकाः समुद्राश्‍च चकम्पिरे॥33॥
चचाल वसुधा चेलुः सकलाश्‍च महीधराः।
जयेति देवाश्‍च मुदा तामूचुः सिंहवाहिनीम्॥34॥
तुष्टुवुर्मुनयश्‍चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः॥35॥
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः॥36॥
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा॥37॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम्॥38॥
दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम्॥39॥
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्।
महिषासुरसेनानीश्‍चिक्षुराख्यो महासुरः॥40॥
युयुधे चामरश्‍चान्यैश्‍चतुरङ्‌गबलान्वितः।
रथानामयुतैः षड्‌भिरुदग्राख्यो महासुरः॥41॥
अयुध्यतायुतानां च सहस्रेण महाहनुः।
पञ्चाशद्‌भिश्‍च नियुतैरसिलोमा महासुरः॥42॥
अयुतानां शतैः षड्‌भिर्बाष्कलो युयुधे रणे।
गजवाजिसहस्रौघैरनेकैः परिवारितः॥43॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः॥44॥
युयुधे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः॥45॥
युयुधुः संयुगे देव्या सह तत्र महासुराः।
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा॥46॥
हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिन्दिपालैश्‍च शक्तिभिर्मुसलैस्तथा॥47॥
युयुधुः संयुगे देव्या खड्‌गैः परशुपट्टिशैः।
केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे॥48॥
देवीं खड्‍गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका॥49॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः॥50॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्‍वरी।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी॥51॥
चचारासुरसैन्येषु वनेष्विव हुताशनः।
निःश्‍वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका॥52॥
त एव सद्यः सम्भूता गणाः शतसहस्रशः।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः॥53॥
नाशयन्तोऽसुरगणान् देवीशक्‍त्युपबृंहिताः।
अवादयन्त पटहान् गणाः शङ्‌खांस्तथापरे॥54॥
मृदङ्‌गांश्‍च तथैवान्ये तस्मिन् युद्धमहोत्सवे।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥55॥
खड्‌गादिभिश्‍च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घण्टास्वनविमोहितान्॥56॥
असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत्।
केचिद् द्विधा कृतास्तीक्ष्णैः खड्‌गपातैस्तथापरे॥57॥
विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्‍च केचिद्रुधिरं मुसलेन भृशं हताः॥58॥
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे॥59॥
श्ये*नानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः।
केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे॥60॥
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः।
विच्छिन्नजङ्‌घास्त्वपरे पेतुरुर्व्यां महासुराः॥61॥
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः॥62॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्‍चापरे तत्र युद्धे तूर्यलयाश्रिताः॥63॥
कबन्धाश्छिन्नशिरसः खड्‌गशक्त्यृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः॥64॥
पातितै रथनागाश्‍वैरसुरैश्‍च वसुन्धरा।
अगम्या साभवत्तत्र यत्राभूत्स महारणः॥65॥
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्॥66॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका।
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्॥67॥
स च सिंहो महानादमुत्सृजन्धुतकेसरः।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति॥68॥
देव्या गणैश्‍च तैस्तत्र कृतं युद्धं महासुरैः।
यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि॥ॐ॥69॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥२॥
उवाच १, श्‍लोकाः ६८, एवम् ६९,
एवमादितः॥१७३ ॥

Durga Saptashati Dwitiya Adhyay 2nd Chapter in English:
Mahiṣāsura Sainyavadhō Nāma Dvitīyōdhyāyaḥ ॥

asya sapta satīmadhyama charitrasya viṣṇur ṛṣiḥ । uṣṇik Chandaḥ । śrīmahālakṣmīdēvatā। śākambharī śaktiḥ । durgā bījaṃ । vāyustattvaṃ । yajurvēdaḥ svarūpaṃ । śrī mahālakṣmīprītyarthē madhyama charitra japē viniyōgaḥ ॥

dhyānaṃ
ōṃ akṣasrakparaśuṃ gadēṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ cha charma jalajaṃ ghaṇṭāṃ surābhājanam ।
śūlaṃ pāśasudarśanē cha dadhatīṃ hastaiḥ pravāḻa prabhāṃ
sēvē sairibhamardinīmiha mahalakṣmīṃ sarōjasthitāṃ ॥

ṛṣiruvācha ॥1॥
dēvāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā।
mahiṣēsurāṇāṃ adhipē dēvānāñcha purandarē

tatrāsurairmahāvīryirdēvasainyaṃ parājitaṃ।
jitvā cha sakalān dēvān indrōbhūnmahiṣāsuraḥ ॥3॥

tataḥ parājitā dēvāḥ padmayōniṃ prajāpatim।
puraskṛtyagatāstatra yatrēśa garuḍadhvajau ॥4॥

yathāvṛttaṃ tayōstadvan mahiṣāsurachēṣṭitam।
tridaśāḥ kathayāmāsurdēvābhibhavavistaram ॥5॥

sūryēndrāgnyanilēndūnāṃ yamasya varuṇasya cha
anyēṣāṃ chādhikārānsa svayamēvādhitiṣṭati ॥6॥

svargānnirākṛtāḥ sarvē tēna dēva gaṇā bhuviḥ।
vicharanti yathā martyā mahiṣēṇa durātmanā ॥6॥

ētadvaḥ kathitaṃ sarvaṃ amarārivichēṣṭitam।
śaraṇaṃ vaḥ prapannāḥ smō vadhastasya vichintyatām ॥8॥

itthaṃ niśamya dēvānāṃ vachāṃsi madhusūdhanaḥ
chakāra kōpaṃ śambhuścha bhrukuṭīkuṭilānanau ॥9॥

tatōtikōpapūrṇasya chakriṇō vadanāttataḥ।
niśchakrāma mahattējō brahmaṇaḥ śaṅkarasya cha ॥10॥

anyēṣāṃ chaiva dēvānāṃ śakrādīnāṃ śarīrataḥ।
nirgataṃ sumahattējaḥ stachchaikyaṃ samagachChata ॥11॥

atīva tējasaḥ kūṭaṃ jvalantamiva parvatam।
dadṛśustē surāstatra jvālāvyāptadigantaram ॥12॥

atulaṃ tatra tattējaḥ sarvadēva śarīrajam।
ēkasthaṃ tadabhūnnārī vyāptalōkatrayaṃ tviṣā ॥13॥

yadabhūchChāmbhavaṃ tējaḥ stēnājāyata tanmukham।
yāmyēna chābhavan kēśā bāhavō viṣṇutējasā ॥14॥

saumyēna stanayōryugmaṃ madhyaṃ chaindrēṇa chābhavat।
vāruṇēna cha jaṅghōrū nitambastējasā bhuvaḥ ॥15॥

brahmaṇastējasā pādau tadaṅguḻyōrka tējasā।
vasūnāṃ cha karāṅguḻyaḥ kaubērēṇa cha nāsikā ॥16॥

tasyāstu dantāḥ sambhūtā prājāpatyēna tējasā
nayanatritayaṃ jajñē tathā pāvakatējasā ॥17॥

bhruvau cha sandhyayōstējaḥ śravaṇāvanilasya cha
anyēṣāṃ chaiva dēvānāṃ sambhavastējasāṃ śiva ॥18॥

tataḥ samasta dēvānāṃ tējōrāśisamudbhavām।
tāṃ vilōkya mudaṃ prāpuḥ amarā mahiṣārditāḥ ॥19॥

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk।
chakraṃ cha dattavān kṛṣṇaḥ samutpāṭya svachakrataḥ ॥20॥

śaṅkhaṃ cha varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ
mārutō dattavāṃśchāpaṃ bāṇapūrṇē tathēṣudhī ॥21॥

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ।
dadau tasyai sahasrākṣō ghaṇṭāmairāvatādgajāt ॥22॥

kāladaṇḍādyamō daṇḍaṃ pāśaṃ chāmbupatirdadau।
prajāpatiśchākṣamālāṃ dadau brahmā kamaṇḍalaṃ ॥23॥

samastarōmakūpēṣu nija raśmīn divākaraḥ
kālaścha dattavān khaḍgaṃ tasyāḥ ścharma cha nirmalam ॥24॥

kṣīrōdaśchāmalaṃ hāraṃ ajarē cha tathāmbarē
chūḍāmaṇiṃ tathādivyaṃ kuṇḍalē kaṭakānicha ॥25॥

ardhachandraṃ tadhā śubhraṃ kēyūrān sarva bāhuṣu
nūpurau vimalau tadva dgraivēyakamanuttamam ॥26॥

aṅguḻīyakaratnāni samastāsvaṅguḻīṣu cha
viśva karmā dadau tasyai paraśuṃ chāti nirmalaṃ ॥27॥

astrāṇyanēkarūpāṇi tathābhēdyaṃ cha daṃśanam।
amlāna paṅkajāṃ mālāṃ śirasyu rasi chāparām॥28॥

adadajjaladhistasyai paṅkajaṃ chātiśōbhanam।
himavān vāhanaṃ siṃhaṃ ratnāni vividhānicha॥29॥

dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ।
śēṣaścha sarva nāgēśō mahāmaṇi vibhūṣitam ॥30॥

nāgahāraṃ dadou tasyai dhattē yaḥ pṛthivīmimām।
anyairapi surairdēvī bhūṣaṇaiḥ āyudhaistathāḥ ॥31॥

sammānitā nanādōchchaiḥ sāṭṭahāsaṃ muhurmuhu।
tasyānādēna ghōrēṇa kṛtsna māpūritaṃ nabhaḥ ॥32॥

amāyatātimahatā pratiśabdō mahānabhūt।
chukṣubhuḥ sakalālōkāḥ samudrāścha chakampirē ॥33॥

chachāla vasudhā chēluḥ sakalāścha mahīdharāḥ।
jayēti dēvāścha mudā tāmūchuḥ siṃhavāhinīm ॥34॥

tuṣṭuvurmunayaśchaināṃ bhaktinamrātmamūrtayaḥ।
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailōkyaṃ amarārayaḥ ॥35॥

sannaddhākhilasainyāstē samuttasthurudāyudāḥ।
āḥ kimētaditi krōdhādābhāṣya mahiṣāsuraḥ ॥36॥

abhyadhāvata taṃ śabdaṃ aśēṣairasurairvṛtaḥ।
sa dadarṣa tatō dēvīṃ vyāptalōkatrayāṃ tviṣā॥37॥

pādākrāntyā natabhuvaṃ kirīṭōllikhitāmbarām।
kṣōbhitāśēṣapātāḻāṃ dhanurjyāniḥsvanēna tām ॥38॥diśō bhujasahasrēṇa samantādvyāpya saṃsthitām।
tataḥ pravavṛtē yuddhaṃ tayā dēvyā suradviṣāṃ ॥39॥

śastrāstrairbhahudhā muktairādīpitadigantaram।
mahiṣāsurasēnānīśchikṣurākhyō mahāsuraḥ ॥40॥

yuyudhē chamaraśchānyaiśchaturaṅgabalānvitaḥ।
rathānāmayutaiḥ ṣaḍbhiḥ rudagrākhyō mahāsuraḥ ॥41॥

ayudhyatāyutānāṃ cha sahasrēṇa mahāhanuḥ।
pañchāśadbhiścha niyutairasilōmā mahāsuraḥ ॥42॥

ayutānāṃ śataiḥ ṣaḍbhiḥrbhāṣkalō yuyudhē raṇē।
gajavāji sahasraughai ranēkaiḥ parivāritaḥ ॥43॥

vṛtō rathānāṃ kōṭyā cha yuddhē tasminnayudhyata।
biḍālākhyōyutānāṃ cha pañchāśadbhirathāyutaiḥ ॥44॥

yuyudhē saṃyugē tatra rathānāṃ parivāritaḥ।
anyē cha tatrāyutaśō rathanāgahayairvṛtāḥ ॥45॥

yuyudhuḥ saṃyugē dēvyā saha tatra mahāsurāḥ।
kōṭikōṭisahastraistu rathānāṃ dantināṃ tathā ॥46॥

hayānāṃ cha vṛtō yuddhē tatrābhūnmahiṣāsuraḥ।
tōmarairbhindhipālaiścha śaktibhirmusalaistathā ॥47॥

yuyudhuḥ saṃyugē dēvyā khaḍgaiḥ parasupaṭṭisaiḥ।
kēchichCha chikṣipuḥ śaktīḥ kēchit pāśāṃstathāparē ॥48॥

dēvīṃ khaḍgaprahāraistu tē tāṃ hantuṃ prachakramuḥ।
sāpi dēvī tatastāni śastrāṇyastrāṇi chaṇḍikā ॥49॥

līla yaiva prachichChēda nijaśastrāstravarṣiṇī।
anāyastānanā dēvī stūyamānā surarṣibhiḥ ॥50॥

mumōchāsuradēhēṣu śastrāṇyastrāṇi chēśvarī।
sōpi kruddhō dhutasaṭō dēvyā vāhanakēsarī ॥51॥chachārāsura sainyēṣu vanēṣviva hutāśanaḥ।
niḥśvāsān mumuchēyāṃścha yudhyamānāraṇēmbikā॥52॥

ta ēva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ।
yuyudhustē paraśubhirbhindipālāsipaṭṭiśaiḥ ॥53॥

nāśayantōasuragaṇān dēvīśaktyupabṛṃhitāḥ।
avādayantā paṭahān gaṇāḥ śaṅāṃ stathāparē॥54॥

mṛdaṅgāṃścha tathaivānyē tasminyuddha mahōtsavē।
tatōdēvī triśūlēna gadayā śaktivṛṣṭibhiḥ॥55॥

khaḍgādibhiścha śataśō nijaghāna mahāsurān।
pātayāmāsa chaivānyān ghaṇṭāsvanavimōhitān ॥56॥

asurān bhuvipāśēna badhvāchānyānakarṣayat।
kēchid dvidhākṛtā stīkṣṇaiḥ khaḍgapātaistathāparē॥57॥

vipōthitā nipātēna gadayā bhuvi śēratē।
vēmuścha kēchidrudhiraṃ musalēna bhṛśaṃ hatāḥ ॥58॥

kēchinnipatitā bhūmau bhinnāḥ śūlēna vakṣasi।
nirantarāḥ śaraughēna kṛtāḥ kēchidraṇājirē ॥59॥

śalyānukāriṇaḥ prāṇān mamuchustridaśārdanāḥ।
kēṣāñchidbāhavaśchinnāśchinnagrīvāstathāparē ॥60॥

śirāṃsi pēturanyēṣāṃ anyē madhyē vidāritāḥ।
vichChinnajajghāsvaparē pētururvyāṃ mahāsurāḥ ॥61॥

ēkabāhvakṣicharaṇāḥ kēchiddēvyā dvidhākṛtāḥ।
Chinnēpi chānyē śirasi patitāḥ punarutthitāḥ ॥62॥

kabandhā yuyudhurdēvyā gṛhītaparamāyudhāḥ।
nanṛtuśchāparē tatra yuddē tūryalayāśritāḥ ॥63॥

kabandhāśchinnaśirasaḥ khaḍgaśakytṛṣṭipāṇayaḥ।
tiṣṭha tiṣṭhēti bhāṣantō dēvī manyē mahāsurāḥ ॥64॥

pātitai rathanāgāśvaiḥ āsuraiścha vasundharā।
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ॥65॥

śōṇitaughā mahānadyassadyastatra visusruvuḥ।
madhyē chāsurasainyasya vāraṇāsuravājinām ॥66॥

kṣaṇēna tanmahāsainyamasurāṇāṃ tathāmbikā।
ninyē kṣayaṃ yathā vahnistṛṇadāru mahāchayam ॥67॥

sacha siṃhō mahānādamutsṛjan dhutakēsaraḥ।
śarīrēbhyōmarārīṇāmasūniva vichinvati ॥68॥

dēvyā gaṇaiścha taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ।
yathaiṣāṃ tuṣṭuvurdēvāḥ puṣpavṛṣṭimuchō divi ॥69॥

jaya jaya śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē mahiṣāsurasainyavadhō nāma dvitīyōdhyāyaḥ॥

āhuti:
ōṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aṣṭāviṃśati varṇātmikāyai lakśmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ।

Durga Saptashati Dwitiya Adhyay 2nd Chapter in Telugu:

దేవీ మహాత్మ్యం దుర్గా సప్తశతి ద్వితీయోఽధ్యాయః
మహిషాసుర సైన్యవధో నామ ద్వితీయోఽధ్యాయః ॥

అస్య సప్త సతీమధ్యమ చరిత్రస్య విష్ణుర్ ఋషిః । ఉష్ణిక్ ఛందః । శ్రీమహాలక్ష్మీదేవతా। శాకంభరీ శక్తిః । దుర్గా బీజం । వాయుస్తత్త్వం । యజుర్వేదః స్వరూపం । శ్రీ మహాలక్ష్మీప్రీత్యర్థే మధ్యమ చరిత్ర జపే వినియోగః ॥

ధ్యానం
ఓం అక్షస్రక్పరశుం గదేషుకులిశం పద్మం ధనుః కుండికాం
దండం శక్తిమసిం చ చర్మ జలజం ఘంటాం సురాభాజనం ।
శూలం పాశసుదర్శనే చ దధతీం హస్తైః ప్రవాళ ప్రభాం
సేవే సైరిభమర్దినీమిహ మహలక్ష్మీం సరోజస్థితాం ॥

ఋషిరువాచ ॥1॥

దేవాసురమభూద్యుద్ధం పూర్ణమబ్దశతం పురా।
మహిషేఽసురాణాం అధిపే దేవానాంచ పురందరే

తత్రాసురైర్మహావీర్యిర్దేవసైన్యం పరాజితం।
జిత్వా చ సకలాన్ దేవాన్ ఇంద్రోఽభూన్మహిషాసురః ॥3॥

తతః పరాజితా దేవాః పద్మయోనిం ప్రజాపతిం।
పురస్కృత్యగతాస్తత్ర యత్రేశ గరుడధ్వజౌ ॥4॥

యథావృత్తం తయోస్తద్వన్ మహిషాసురచేష్టితం।
త్రిదశాః కథయామాసుర్దేవాభిభవవిస్తరం ॥5॥

సూర్యేంద్రాగ్న్యనిలేందూనాం యమస్య వరుణస్య చ
అన్యేషాం చాధికారాన్స స్వయమేవాధితిష్టతి ॥6॥

స్వర్గాన్నిరాకృతాః సర్వే తేన దేవ గణా భువిః।
విచరంతి యథా మర్త్యా మహిషేణ దురాత్మనా ॥6॥

ఏతద్వః కథితం సర్వం అమరారివిచేష్టితం।
శరణం వః ప్రపన్నాః స్మో వధస్తస్య విచింత్యతాం ॥8॥

ఇత్థం నిశమ్య దేవానాం వచాంసి మధుసూధనః
చకార కోపం శంభుశ్చ భ్రుకుటీకుటిలాననౌ ॥9॥

తతోఽతికోపపూర్ణస్య చక్రిణో వదనాత్తతః।
నిశ్చక్రామ మహత్తేజో బ్రహ్మణః శంకరస్య చ ॥10॥

అన్యేషాం చైవ దేవానాం శక్రాదీనాం శరీరతః।
నిర్గతం సుమహత్తేజః స్తచ్చైక్యం సమగచ్ఛత ॥11॥

అతీవ తేజసః కూటం జ్వలంతమివ పర్వతం।
దదృశుస్తే సురాస్తత్ర జ్వాలావ్యాప్తదిగంతరం ॥12॥

అతులం తత్ర తత్తేజః సర్వదేవ శరీరజం।
ఏకస్థం తదభూన్నారీ వ్యాప్తలోకత్రయం త్విషా ॥13॥

యదభూచ్ఛాంభవం తేజః స్తేనాజాయత తన్ముఖం।
యామ్యేన చాభవన్ కేశా బాహవో విష్ణుతేజసా ॥14॥

సౌమ్యేన స్తనయోర్యుగ్మం మధ్యం చైంద్రేణ చాభవత్।
వారుణేన చ జంఘోరూ నితంబస్తేజసా భువః ॥15॥

బ్రహ్మణస్తేజసా పాదౌ తదంగుళ్యోఽర్క తేజసా।
వసూనాం చ కరాంగుళ్యః కౌబేరేణ చ నాసికా ॥16॥

తస్యాస్తు దంతాః సంభూతా ప్రాజాపత్యేన తేజసా
నయనత్రితయం జజ్ఞే తథా పావకతేజసా ॥17॥

భ్రువౌ చ సంధ్యయోస్తేజః శ్రవణావనిలస్య చ
అన్యేషాం చైవ దేవానాం సంభవస్తేజసాం శివ ॥18॥

తతః సమస్త దేవానాం తేజోరాశిసముద్భవాం।
తాం విలోక్య ముదం ప్రాపుః అమరా మహిషార్దితాః ॥19॥

శూలం శూలాద్వినిష్కృష్య దదౌ తస్యై పినాకధృక్।
చక్రం చ దత్తవాన్ కృష్ణః సముత్పాట్య స్వచక్రతః ॥20॥

శంఖం చ వరుణః శక్తిం దదౌ తస్యై హుతాశనః
మారుతో దత్తవాంశ్చాపం బాణపూర్ణే తథేషుధీ ॥21॥

వజ్రమింద్రః సముత్పాట్య కులిశాదమరాధిపః।
దదౌ తస్యై సహస్రాక్షో ఘంటామైరావతాద్గజాత్ ॥22॥

కాలదండాద్యమో దండం పాశం చాంబుపతిర్దదౌ।
ప్రజాపతిశ్చాక్షమాలాం దదౌ బ్రహ్మా కమండలం ॥23॥

సమస్తరోమకూపేషు నిజ రశ్మీన్ దివాకరః
కాలశ్చ దత్తవాన్ ఖడ్గం తస్యాః శ్చర్మ చ నిర్మలం ॥24॥

క్షీరోదశ్చామలం హారం అజరే చ తథాంబరే
చూడామణిం తథాదివ్యం కుండలే కటకానిచ ॥25॥

అర్ధచంద్రం తధా శుభ్రం కేయూరాన్ సర్వ బాహుషు
నూపురౌ విమలౌ తద్వ ద్గ్రైవేయకమనుత్తమం ॥26॥

అంగుళీయకరత్నాని సమస్తాస్వంగుళీషు చ
విశ్వ కర్మా దదౌ తస్యై పరశుం చాతి నిర్మలం ॥27॥

అస్త్రాణ్యనేకరూపాణి తథాఽభేద్యం చ దంశనం।
అమ్లాన పంకజాం మాలాం శిరస్యు రసి చాపరాం॥28॥

అదదజ్జలధిస్తస్యై పంకజం చాతిశోభనం।
హిమవాన్ వాహనం సింహం రత్నాని వివిధానిచ॥29॥

దదావశూన్యం సురయా పానపాత్రం దనాధిపః।
శేషశ్చ సర్వ నాగేశో మహామణి విభూషితం ॥30॥

నాగహారం దదొఉ తస్యై ధత్తే యః పృథివీమిమాం।
అన్యైరపి సురైర్దేవీ భూషణైః ఆయుధైస్తథాః ॥31॥

సమ్మానితా ననాదోచ్చైః సాట్టహాసం ముహుర్ముహు।
తస్యానాదేన ఘోరేణ కృత్స్న మాపూరితం నభః ॥32॥

అమాయతాతిమహతా ప్రతిశబ్దో మహానభూత్।
చుక్షుభుః సకలాలోకాః సముద్రాశ్చ చకంపిరే ॥33॥

చచాల వసుధా చేలుః సకలాశ్చ మహీధరాః।
జయేతి దేవాశ్చ ముదా తామూచుః సింహవాహినీం ॥34॥

తుష్టువుర్మునయశ్చైనాం భక్తినమ్రాత్మమూర్తయః।
దృష్ట్వా సమస్తం సంక్షుబ్ధం త్రైలోక్యం అమరారయః ॥35॥

సన్నద్ధాఖిలసైన్యాస్తే సముత్తస్థురుదాయుదాః।
ఆః కిమేతదితి క్రోధాదాభాష్య మహిషాసురః ॥36॥

అభ్యధావత తం శబ్దం అశేషైరసురైర్వృతః।
స దదర్ష తతో దేవీం వ్యాప్తలోకత్రయాం త్విషా॥37॥

పాదాక్రాంత్యా నతభువం కిరీటోల్లిఖితాంబరాం।
క్షోభితాశేషపాతాళాం ధనుర్జ్యానిఃస్వనేన తాం ॥38॥

దిశో భుజసహస్రేణ సమంతాద్వ్యాప్య సంస్థితాం।
తతః ప్రవవృతే యుద్ధం తయా దేవ్యా సురద్విషాం ॥39॥

శస్త్రాస్త్రైర్భహుధా ముక్తైరాదీపితదిగంతరం।
మహిషాసురసేనానీశ్చిక్షురాఖ్యో మహాసురః ॥40॥

యుయుధే చమరశ్చాన్యైశ్చతురంగబలాన్వితః।
రథానామయుతైః షడ్భిః రుదగ్రాఖ్యో మహాసురః ॥41॥

అయుధ్యతాయుతానాం చ సహస్రేణ మహాహనుః।
పంచాశద్భిశ్చ నియుతైరసిలోమా మహాసురః ॥42॥

అయుతానాం శతైః షడ్భిఃర్భాష్కలో యుయుధే రణే।
గజవాజి సహస్రౌఘై రనేకైః పరివారితః ॥43॥

వృతో రథానాం కోట్యా చ యుద్ధే తస్మిన్నయుధ్యత।
బిడాలాఖ్యోఽయుతానాం చ పంచాశద్భిరథాయుతైః ॥44॥

యుయుధే సంయుగే తత్ర రథానాం పరివారితః।
అన్యే చ తత్రాయుతశో రథనాగహయైర్వృతాః ॥45॥

యుయుధుః సంయుగే దేవ్యా సహ తత్ర మహాసురాః।
కోటికోటిసహస్త్రైస్తు రథానాం దంతినాం తథా ॥46॥

హయానాం చ వృతో యుద్ధే తత్రాభూన్మహిషాసురః।
తోమరైర్భింధిపాలైశ్చ శక్తిభిర్ముసలైస్తథా ॥47॥

యుయుధుః సంయుగే దేవ్యా ఖడ్గైః పరసుపట్టిసైః।
కేచిచ్ఛ చిక్షిపుః శక్తీః కేచిత్ పాశాంస్తథాపరే ॥48॥

దేవీం ఖడ్గప్రహారైస్తు తే తాం హంతుం ప్రచక్రముః।
సాపి దేవీ తతస్తాని శస్త్రాణ్యస్త్రాణి చండికా ॥49॥

లీల యైవ ప్రచిచ్ఛేద నిజశస్త్రాస్త్రవర్షిణీ।
అనాయస్తాననా దేవీ స్తూయమానా సురర్షిభిః ॥50॥

ముమోచాసురదేహేషు శస్త్రాణ్యస్త్రాణి చేశ్వరీ।
సోఽపి క్రుద్ధో ధుతసటో దేవ్యా వాహనకేసరీ ॥51॥

చచారాసుర సైన్యేషు వనేష్వివ హుతాశనః।
నిఃశ్వాసాన్ ముముచేయాంశ్చ యుధ్యమానారణేఽంబికా॥52॥

త ఏవ సధ్యసంభూతా గణాః శతసహస్రశః।
యుయుధుస్తే పరశుభిర్భిందిపాలాసిపట్టిశైః ॥53॥

నాశయంతోఽఅసురగణాన్ దేవీశక్త్యుపబృంహితాః।
అవాదయంతా పటహాన్ గణాః శఙాం స్తథాపరే॥54॥

మృదంగాంశ్చ తథైవాన్యే తస్మిన్యుద్ధ మహోత్సవే।
తతోదేవీ త్రిశూలేన గదయా శక్తివృష్టిభిః॥55॥

ఖడ్గాదిభిశ్చ శతశో నిజఘాన మహాసురాన్।
పాతయామాస చైవాన్యాన్ ఘంటాస్వనవిమోహితాన్ ॥56॥

అసురాన్ భువిపాశేన బధ్వాచాన్యానకర్షయత్।
కేచిద్ ద్విధాకృతా స్తీక్ష్ణైః ఖడ్గపాతైస్తథాపరే॥57॥

విపోథితా నిపాతేన గదయా భువి శేరతే।
వేముశ్చ కేచిద్రుధిరం ముసలేన భృశం హతాః ॥58॥

కేచిన్నిపతితా భూమౌ భిన్నాః శూలేన వక్షసి।
నిరంతరాః శరౌఘేన కృతాః కేచిద్రణాజిరే ॥59॥

శల్యానుకారిణః ప్రాణాన్ మముచుస్త్రిదశార్దనాః।
కేషాంచిద్బాహవశ్చిన్నాశ్చిన్నగ్రీవాస్తథాపరే ॥60॥

శిరాంసి పేతురన్యేషాం అన్యే మధ్యే విదారితాః।
విచ్ఛిన్నజజ్ఘాస్వపరే పేతురుర్వ్యాం మహాసురాః ॥61॥

ఏకబాహ్వక్షిచరణాః కేచిద్దేవ్యా ద్విధాకృతాః।
ఛిన్నేపి చాన్యే శిరసి పతితాః పునరుత్థితాః ॥62॥

కబంధా యుయుధుర్దేవ్యా గృహీతపరమాయుధాః।
ననృతుశ్చాపరే తత్ర యుద్దే తూర్యలయాశ్రితాః ॥63॥

కబంధాశ్చిన్నశిరసః ఖడ్గశక్య్తృష్టిపాణయః।
తిష్ఠ తిష్ఠేతి భాషంతో దేవీ మన్యే మహాసురాః ॥64॥

పాతితై రథనాగాశ్వైః ఆసురైశ్చ వసుంధరా।
అగమ్యా సాభవత్తత్ర యత్రాభూత్ స మహారణః ॥65॥

శోణితౌఘా మహానద్యస్సద్యస్తత్ర విసుస్రువుః।
మధ్యే చాసురసైన్యస్య వారణాసురవాజినాం ॥66॥

క్షణేన తన్మహాసైన్యమసురాణాం తథాఽంబికా।
నిన్యే క్షయం యథా వహ్నిస్తృణదారు మహాచయం ॥67॥

సచ సింహో మహానాదముత్సృజన్ ధుతకేసరః।
శరీరేభ్యోఽమరారీణామసూనివ విచిన్వతి ॥68॥

దేవ్యా గణైశ్చ తైస్తత్ర కృతం యుద్ధం తథాసురైః।
యథైషాం తుష్టువుర్దేవాః పుష్పవృష్టిముచో దివి ॥69॥

జయ జయ శ్రీ మార్కండేయ పురాణే సావర్నికే మన్వంతరే దేవి మహత్మ్యే మహిషాసురసైన్యవధో నామ ద్వితీయోఽధ్యాయః॥

ఆహుతి
ఓం హ్రీం సాంగాయై సాయుధాయై సశక్తికాయై సపరివారాయై సవాహనాయై అష్టావింశతి వర్ణాత్మికాయై లక్శ్మీ బీజాదిష్టాయై మహాహుతిం సమర్పయామి నమః స్వాహా ।

Durga Saptashati Dwitiya Adhyay 2nd Chapter Story:

देवताओ के तेज से देवी का पादुर्भाव और महिषासुर की सेना का वध:
महर्षि मेघा बोले – प्राचीन कल में देवताओं और असुरो में पुरे सौ वर्षो तक घोर युद्ध हुआ था । उनमें असुरों का स्वामी महिषासुर था और देवराज इंद्र देवताओ के नायक थे । इस युद्ध में देवताओं की सेना परास्त हो गई थी और इस प्रकार सम्पूर्ण देवताओं को जीत महिषासुर इंद्र बन बैठा था। युद्ध के पश्चात हारे हुए देवता प्रजापति श्रीब्रह्मा को साथ लेकर उस स्थान पर पहुँचे, जहाँ पर कि भगवान शंकर विराजमान थे । देवताओं ने अपनी हार का सारा वृतान्त भगवान श्रीविष्णु और शंकरजी से कह सुनाया

वह कहने लगे- हे प्रभु! महिषासुर सूर्य, इंद्र, अग्नि, वायु, चंद्रमा, यम, वरुण तथा अन्य देवताओं के सब अधिकार छीनकर सबका अधिष्ठाता स्वयं बन बैठा है। उसने समस्त देवताओं को स्वर्ग से निकाल दिया है। मनुष्यों की तरह पृथवी पर विचर रहे हैं। दैत्यों की सारी करतूत हमने आपको सुनादी है और आपकी शरण में इसलिए आए है कि आप उनके वध का कोई उपाय सोचें । देवताओं की बातें सुनकर भगवान श्रीविष्णु और शंकर जी को दैत्यों पर बड़ा गुस्सा आया । उनकी भौहें तन गई और आँखे लाल हो गई । गुस्से में भरे हुए भगवान विष्णु के मुख से बड़ा भारी तेज निकाला और उसी प्रकार का तेज भगवान शंकरजी, ब्रह्मा जी और इंद्र आदि दूसरे देवताओं के मुख से प्रकट हुआ। फिर वह सारा तेज एक में मिल गया और तेज का पुंज वह ऐसे देखता था, जैसे कि जाज्वल्यमान पर्वत हो। देवताओं ने देखा कि उस पर्वत की ज्वाला चारों ओर फैली हुई थी और देवताओं के शरीर से प्रकट हुए तेज की किसी अन्य तेज से तुलना नहीं हो सकती थी । एक स्थल पर इकठ्ठा होने पर वह तेज एक देवी के रूप में परिवर्तित हो गया और अपने प्रकाश से तीनों लोकों में व्याप्त जान पड़ा। वह भगवान शंकर जी का तेज था, उससे देवी का मुख प्रकट हुआ। यमराज के तेज से उसके शिर के बाल बने, भगवान विष्णु जी के तेज से उसकी भुजाएं बनीं , चन्द्रमा के तेज से दोनों स्तन और इंद्र के तेज से जंघा और पिंडली तथा पृथवी के तेज से नितम्ब भाग बना, ब्रह्म के तेज से दोनों चरण और सूर्य के तेज से उसकी उँगलिया पैदा हुई और वसुओं के तेज से हाथों की अंगुलियाँ एवम कुबेर के तेज से नासिक बनी प्रजापति के तेज से उसके दांत और अग्नि के तेज से उसके नेत्र बने, सन्ध्या के तेज से उसकी भौहें और वायु के तेज से उसके कान प्रकट हुए थे।

इस प्रकार उस देवी का पादुर्भाव हुआ था। महिषासुर से पराजित देवता उस देवी को देखकर अत्यंत प्रसन्न हुए। भगवान शंकर जी ने अपने त्रिशूल में से एक त्रिशूल निकाल कर उस देवी को दिया और भगवान विष्णु ने अपने चक्र में से एक चक्र निकाल कर देवी को दिया, वरुण ने अपने चक्र में से एक चक्र निकाल कर उस देवी को दिया, वरुण ने देवी को शंख भेंट किया, अग्नि ने इसे शक्ति दी, वायु ने उसे धनुष और बाण दिए, सहस्त्र नेत्रों वाले श्रीदेवराज इंद्र ने उसे अपने वज्र से उत्पन्न करके वज्रदिया और ऐरावत हाथी का एक घण्टा उतारकर देवी को भेंट किया, यमराज ने उसे कालदंड में ले एक दंड दिया, वरुण ने उसे पाश दिया, प्रजापति ने स्फटिक की माला दी और ब्रह्मा जी ने उसे कमण्डलु दिया, सूर्य ने देवी के समस्त रोमों में अपनी किरणों का तेज भर दिया, कालने उसे चमकती हुई ढाल और तलवार दी तथा उज्वल हार और दिव्या वस्त्र उसे भेंट किये और इनके साथ ही उसने दिव्य चूड़ामणि दी, दो कुंडल, कंकण, उज्जवल अर्धचन्द्र, बाँहों के लिए बाजूबंद, चरणों के लिए नूपुर, गले के लिए सुंदर हंसली और +अंगुलियों के लिए रत्नों की बानी हुई अंगूठियां उसे दीं , विश्वकर्मा ने उनको फरसा दिया और उसके साथ ही कई प्रकार के अस्त्र और अभेद कवच दिए और इसके अतिरिक्त उसने उसे कभी न कुम्ल्हाने वाले सुंदर कमलों की मालाएं भेंट की, समुद्र ने सुंदर कमल का फूल भेंट किया । हिमालय ने सवारी के लिए सिंह और तरह- तरह के रतन देवी को भेंट किए, यक्षराज कुबेर ने मधु से भरा हुआ पात्र और शेषनाग ने उन्हें बहुमूल्य मणियो से विभूषित नागहार भेंट किया । इसी तरह दूसरे देवताओं ने भी उसे आभूषण और अस्त्र देकर उसका सम्मान किया। इसके पश्चात देवी ने उच्च स्वर से गर्जना की । उसके इस भयंकर नाद से आकाश गूंज उठा । देवी का वह उच्च स्वर से किया हुआ सिंघनाद समा न सका, आकाश उनके सामने छोटा प्रतीत होने लगा। उससे बड़े जोर की प्रतिध्वनि हुई, जिससे समस्त विश्व में हलचल मच गई और समुद्र कांप उठे, पृथ्वी डोलने लगी और सबके सब पर्वत हिलने लगे । देवताओं ने उस समय प्रसन्न हो सिंह वाहिनी जगत्मयी देवी ने कहा- देवी ! तुम्हारी जय हो । इसके साथ महर्षि ने भक्ति भाव से विनम्र होकर उनकी स्तुति की । सम्पूर्ण त्रिलोकी को शोक मग्न देखकर दैत्यगण अपनी सेनाओं को साथ लेकर और हथियार आदि सजाकर उठ खड़े हुए, महिषासुर के क्रोध की कोई सीमा नहीं थी। उसने क्रोध में भर कर कहा- ‘यह सब क्या उत्पात है, फिर वह अपनी सेना के साथ उस और दौड़ा, जिस ओर से भयंकर नाद का शब्द सुनाई दिया था और आगे पहुँच का उसने देवी को देखा, जो कि अपनी प्रभा से तीनों लोकों को प्रकाशति कर रही थी ।
उसके चरणों के भार से पृथ्वी दबी जा रही थी। माथे के मुकुट से आकाश में एक रेखा से बन रही थी और उसके धनुष की टंकोर से सब लोग क्षुब्ध हो रहे थे, देवी अपनी सहस्त्रो भुजाओं को सम्पूर्ण दिशाओं में फैलाये खड़ी थी । इसके पश्चात उनका दैत्यों के साथ युद्ध छिड़ गया और कई प्रकार के अस्त्र- शस्त्रों से सब की सब दिशाएँ उद्भाषित होने लगीं। महिषासुर की सेना का सेनापति चिक्षुर नमक एक महान असुर था, वह आगे बढ़कर देवी के साथ युद्ध करने लगा और दूसरे दैत्यों की चतुरगणी सेना साथ लेकर चामर भी लड़ने लगा और साठ हज़ार महारथियो को साथ लेकर उदग्र नमक महादैत्य आकर युद्ध करने लगा और महाहनु नमक असुर एक करोड़ राथिओ को साथ लेकर, असिलोमा नमक असुर पाँच करोड़ सैनिकों को साथ लेकर युद्ध करने लगा, वाष्कल नमक असुर साठ लाख असुरों के साथ युद्ध में आ डटा , विडाल नमक असुर एक करोड़ राथिओ सहित लड़ने को तैयार था, इन सबके अतिरिक्त और भी हज़ारों असुर हाथी और घोडा साथ लेकर लड़ने लगे और इन सबके पश्चात महिषासुर करोड़ो रथों, हाथियों और घोड़ों सहित वहां आकर देवी के साथ लड़ने लगा। सभी असुर तोमर, भिन्दिपाल, शक्ति, मूसल, खड्गं, फरसों, पट्टियों के साथ रणभूमि में देवी के साथ युद्ध करने लगे। कई शक्तियां फेंकने लगे और कोई अन्य शस्त्र आदि, इसके पश्चात सबके सब दैत्य अपनी- अपनी तलवारें हाथों में लेकर देवी की ओर दौड़े और उसे मार डालने का उधोग करने लगे । मगर देवी ने क्रोध में भरकर खेल ही खेल में उनके सब अस्त्रो शस्त्रो को काट दिया । इसके पश्चात ऋषियों और देवताओं ने देवी की स्तुति आरंभ कर दी और वह प्रसन्न होकर असुरों के शरीरों पर अस्त्र- शस्त्रों की वर्षा करती रही । देवी का वाहन भी क्रोध में भरकर दैत्य सेना विचरने लगा जैसे कि वन में दावानल फैल रहा हो । युद्ध करती हुई देवी ने क्रोध में भर जितने श्वासों को छोड़ा, वह तुंरत ही सैकड़ो हज़ारों गणों के रूप में परिवर्तित हो गये । फरसे, भिन्द्रीपाल, खड्ग इत्यादि अस्त्रों के साथ दैत्यों से युद्ध करने लगे, देवी की शक्ति से बढ़े हुए वह गण दैत्यों का नाश करते हुए ढोल, शंख व मृदंग आदि बजा रहे थे, तदन्तर देवी ने त्रिशूल, गदा, शक्ति, खड्ग इत्यादि से सहस्त्रो असुरों को मार डाला, कितनो को घंटे की भयंकर आवाज़ से ही यमलोक पहुँचा दिया, कितनों ही असुरों को उसने पास में बांधकर पृथवी पर धर घसीटा, कितनों को अपनी तलवार से टुकड़े-टुकड़े कर दिया और कितनों को गदा की चोट से धरती पर सुला दिया, कई दैत्य मूसल की मार से घयाल होकर रक्त वमन करने लगे और कई शूल से छाती फट जाने के कारण पृथवी पर लेट गए और कितनों की बाण वर्षा से कमर टूट गई ।
देवताओं को पीड़ा देने वाले दैत्य काट काट कर मारने लगे। कितनों की बाहें अलग हो गई, कितनों की ग्रीवायें काट गई, कितनों के सिर काट कर दूर भूमि पर लुढ़क गये, कितनों के शरीर बीच में से कट गए और कितनों की जंघाए कट गयीं और वह पृथवी पर गिर पड़े। कितने ही सिरों व पैरों के कटने पर भी भूमि पर से उठ खड़े हुए और शस्त्र हाथ में लेकर देवी से लड़ने लगे और कई दैत्यगण भूमि में बाजों की ध्वनि के साथ नाच रहे थे, कई असुर जिनके सिर कट चुके थे, बिना सिर के धड़ से ही हाथ में शस्त्र लिए हुए लड़ रहे थे, दैत्य रह-रहकर ठहरो! ठहरो! कहते हुए देवी को युद्ध के लिए ललकार रहे थे। जहाँ पर यह घोर संग्राम हुआ था वहाँ की भूमि रथ, हाथी, घोड़े और असुरों की लाशों से भर गई थी और असुर सेना के बीच में रक्तपात होने के कारण रूधिर की नदियां बह रही थीं और इस तरह देवी ने असुरों की विशाल सेना को क्षण भर में इस तरह से नष्ट कर डाला, जैसे तृण काष्ठ के बड़े समूह को अग्नि नष्ट कर डालती है और देवी का सिंह भी गर्दन के बालों को हिलाता हुआ और बड़ा शब्द करता हुआ असुरों के शरीरों से मानो उनके प्राणों को खोज कर रहा था । वहाँ देवी ने गणों ने जब दैत्यों के साथ युद्ध किया तो देवताओं प्रसन्न हो कर आकाश से उन पर पुष्प वर्षा की|

Durga Saptashti -Chapter 2- दूसरा अध्याय समाप्त